|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.57. अध्यायः 057
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति सतीनामसतनां गुणदोषप्रतिपादकनारदमार्कण्डेयसंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`मार्कण्डेय उवाच।
श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने।
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो॥ 13-57-1(83720)
नारद उवाच। 13-57-2x(6920)
आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति।
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम्॥ 13-57-2(83721)
परदारा मुक्तदोषास्ता नार्योऽऽश्रमसंस्थिताः।
स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः॥ 13-57-3(83722)
एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु।
धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः॥ 13-57-4(83723)
मार्कण्डेय उवाच। 13-57-5x(6921)
परस्य भार्या या पूर्वं मृते भर्तरि या पुनः।
अन्यं भजति भर्तारं ससुता असुता कथम्॥ 13-57-5(83724)
नारद उवाच। 13-57-6x(6922)
असुता वा प्रसूता वा गृहस्थानां परस्त्रियः।
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः॥ 13-57-6(83725)
न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः।
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात्॥ 13-57-7(83726)
मार्कण्डेय उवाच। 13-57-8x(6923)
परक्षेत्रेषु यो बीजं चापलाद्विसृजेन्नरः।
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम॥ 13-57-8(83727)
नारद उवाच। 13-57-9x(6924)
अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत्।
स्वयंवृतोऽऽश्रमस्थायां तद्बीजं न विनश्यति॥ 13-57-9(83728)
परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत्।
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम्॥ 13-57-10(83729)
नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम्।
गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि॥ 13-57-11(83730)
मार्कण्डेय उवाच। 13-57-12x(6925)
अथ ये परदारेषु पुत्रा जायन्ति नारद।
कस्य ते बन्धुदायादा भवन्ति परमद्युते॥ 13-57-12(83731)
नारद उवाच। 13-57-13x(6926)
परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ।
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः॥ 13-57-13(83732)
ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च।
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम्॥ 13-57-14(83733)
पितुहि नरकायैते गोलकस्तु विशेषतः।
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः॥ 13-57-15(83734)
मार्कण्डेय उवाच। 13-57-16x(6927)
कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः।
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान्॥ 13-57-16(83735)
नारद उवाच। 13-57-17x(6928)
क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ।
न रक्षति च यो दारान्परदाराश्च गच्छति॥ 13-57-17(83736)
गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः।
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः॥ 13-57-18(83737)
मार्कण्डेय उवाच। 13-57-19x(6929)
तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद।
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलं॥ 13-57-19(83738)
नारद उवाच। 13-57-20x(6930)
यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम्।
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः॥ 13-57-20(83739)
मार्कण्डेय उवाच। 13-57-21x(6931)
अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम्।
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम॥ 13-57-21(83740)
नारद उवाच। 13-57-22x(6932)
न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम्।
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः॥ 13-57-22(83741)
मार्कण्डेय उवाच। 13-57-23x(6933)
अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति।
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तं॥ 13-57-23(83742)
नारद उवाच। 13-57-24x(6934)
साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम्।
प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः॥ 13-57-24(83743)
एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः।
हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः॥' ॥ 13-57-25(83744)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशोऽध्यायः॥ 57 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-57-3 परमं मुक्तदोषास्ता या नार्योऽऽश्रमसंस्थिता इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|